पुत्रशब्दाच् छः प्रत्ययो भवति, चकाराद् यत् च तस्य निमित्तं संयोग उत्पातौ
५।१।३७ इत्येतस्मिन् विषये। द्व्यचः इति नित्ये यति प्राप्ते वचनम्। पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यम्।
पुत्राच्छ च। "गोव्द्यचः"इति नित्यं यति प्राप्ते वचनम्। कथं पुत्रीयः क्रतुरिति। नहि कतुः संयोगो, नाप्युत्पात् इति चेत्। अत्राह हरदत्तः---संयुज्यतेऽनेनेति व्युत्पत्त्या क्रतुरपि संयोग एव, यागकरणेन हि पुरषः फलेन संयुज्यते अतो यागादिरपि संयोगो,न केवलं संबन्धएवेत्याग्रह इति।